Posts

Showing posts with the label मनुस्मृतिः

मनुस्मृतिः/प्रथमोध्यायः - 1

  मनुं एकाग्रं आसीनं अभिगम्य महर्षयः । प्रतिपूज्य यथान्यायं इदं वचनं अब्रुवन् । । १.१ । । भगवन्सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवानां च धर्मान्नो वक्तुं अर्हसि । । १.२ । । त्वं एको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो । । १.३ । । स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः । प्रत्युवाचार्च्य तान्सर्वान्महर्षीञ् श्रूयतां इति । । १.४ । । आसीदिदं तमोभूतं अप्रज्ञातं अलक्षणम् । अप्रतर्क्यं अविज्ञेयं प्रसुप्तं इव सर्वतः । । १.५ । । ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः । । १.६ । । योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयं उद्बभौ । । १.७ । । सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यं अवासृजत् । । १.८ । । तदण्डं अभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । । १.९ । । आपो नरा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः । । १.१० । । यत्तत्कारणं अव्यक्तं नित्यं सदसदात्मकम् । त...

मनुस्मृतिः/प्रथमोध्यायः - 2

  एवं एतैरिदं सर्वं मन्नियोगान्महात्मभिः । यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् । । १.४१ । । येषां तु यादृषं कर्म भूतानां इह कीर्तितम् । तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि । । १.४२ । । पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः । । १.४३ । । अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः । यानि चैवंः प्रकाराणि स्थलजान्यौदकानि च । । १.४४ । । स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृषम् । । १.४५ । । उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः । । १.४६ । । अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः । । १.४७ । । गुच्छगुल्मं तु विविधं तथैव तृणजातयः । बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च । । १.४८ । । तमसा बहुरूपेण वेष्टिताः कर्महेतुना । अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः । । १.४९ । । एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः । घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि । । १.५० । । एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर...

मनुस्मृतिः/द्वितीयोध्यायः - 1

  विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत । । २.१ । । कामात्मता न प्रशस्ता न चैवेहास्त्यकामता । काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः । । २.२ । । संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः । व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः । । २.३ । । अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचित् । यद्यद्धि कुरुते किं चित्तत्तत्कामस्य चेष्टितम् । । २.४ । । तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् । यथा संकल्पितांश्चेह सर्वान्कामान्समश्नुते । । २.५ । । वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनां आत्मनस्तुष्टिरेव च । । २.६ । । यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः । । २.७ । । सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा । श्रुतिप्रामाण्यतो विद्वान्स्वधर्मे निविशेत वै । । २.८ । । श्रुतिस्मृत्युदितं धर्मं अनुतिष्ठन्हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् । । २.९ । । श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ । । २.१० । । योऽवम...

मनुस्मृतिः/द्वितीयोध्यायः - 2

  ब्रह्म यस्त्वननुज्ञातं अधीयानादवाप्नुयात् । स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते । । २.११६ । । लौकिकं वैदिकं वापि तथाध्यात्मिकं एव वा । आददीत यतो ज्ञानं तं पूर्वं अभिवादयेत् । । २.११७ । । सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी । । २.११८ । । शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् । शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत् । । २.११९ । । ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते । । २.१२० । । अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम् । । २.१२१ । । अभिवादात्परं विप्रो ज्यायांसं अभिवादयन् । असौ नामाहं अस्मीति स्वं नाम परिकीर्तयेत् । । २.१२२ । । नामधेयस्य ये के चिदभिवादं न जानते । तान्प्राज्ञोऽहं इति ब्रूयात्स्त्रियः सर्वास्तथैव च । । २.१२३ । । भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः । । २.१२४ । । आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः । । २...

मनुस्मृतिः/तृतीयोध्यायः - 1

  षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिकं एव वा । । ३.१ । । वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रमं आवसेत् । । ३.२ । । तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प आसीनं अर्हयेत्प्रथमं गवा । । ३.३ । । गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि । उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् । । ३.४ । । असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने । । ३.५ । । महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः । स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् । । ३.६ । । हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् । क्षयामयाव्यपस्मारि श्वित्रिकुष्ठिकुलानि च । । ३.७ । । नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् । । ३.८ । । न र्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् । न पक्ष्यहिप्रेष्यनाम्नीं न च भीषननामिकाम् । । ३.९ । । अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् । तनुलोमकेशदशनां मृद्वङ्गीं उद्वहेत्स्त्रियम् । । ३.१० । । यस्यास्तु न भवेद्भ्र...

मनुस्मृतिः/तृतीयोध्यायः - 2

  अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं ह्येतत्सतां अन्नं विधीयते । । ३.११८[१०८ं] । । राजर्त्विक्स्नातकगुरून्प्रियश्वशुरमातुलान् । अर्हयेन्मधुपर्केण परिसंवत्सरात्पुनः । । ३.११९[१०९ं] । । राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ । मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः । । ३.१२०[११०ं] । । सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् । वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते । । ३.१२१[१११ं] । । पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् । पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् । । ३.१२२[११२ं] । । पितॄणां मासिकं श्राद्धं अन्वाहार्यं विदुर्बुधाः । तच्चामिषेणा कर्तव्यं प्रशस्तेन प्रयत्नतः । । ३.१२३[११३ं] । । तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः । यावन्तश्चैव यैश्चान्नैस्तान्प्रवक्ष्याम्यशेषतः । । ३.१२४[११४ं] । । द्वौ दैवे पितृकार्ये त्रीनेकैकं उभयत्र वा । भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे । । ३.१२५[११५ं] । । सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः । पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् । । ३.१२६[११६ं] । । प्रथिता प्र...